श्री विष्णु स्तवन
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं,
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् /
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं,
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् //
यं ब्रह्मा वरुणेन्द्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै,
र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः //
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो,
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः //
No comments:
Post a Comment